পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৫৬

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।



तीर्थेषु भ्रमणात् श्रुताध्ययनतो दानात्तथाध्यापनाद्-
यज्ञानां करणाद् व्रतैकचरणात् सर्व्वो-
४४ त्तरः श्रोत्रियः।
प्रातर्न्नक्त मयाचितोपवसनै र्य्येन स्वयं गुग्गुलो-
राकर्षाद्वरदः कृतोत्र हि कलौ श्री-
४५ सोमनाथः प्रभुः॥(২৬)
कर्म्मब्रह्म-विद्यां मुख्यः सर्व्वाकार-तपोनिधिः।
श्रौत-स्मार्त्त-रहस्येषु वागीश इव वि-
४६ श्रुतः॥(২৭)
एतस्मै शासनं प्रादाद्वैद्यदेव-क्षी(चि)तीश्वरः।
वैशाखे विषु[व]त्याञ्च स्वर्गार्थं हरिवासरे॥(২৮)

४७ स्वस्ति हंसाकोञ्ची-समावासित-श्रीमज्जयस्कन्धावारात् परममाहेश्वरः परमवैष्णवः(वो) महाराजाधि-
४८ राजः। परमेश्वरः परमभट्टारकः। श्रीमान् वैद्यदेव देवः कुशली। श्रीप्राग्‌ज्योतिष-भुक्तौ। कामरू-
४९ प-मण्डले। वाडा-विस(ष)ये भट्ट-गङ्गाधर-भुक्तक। शान्ति वडामन्दरा-ग्रामीय। यथा-प्रधान-प्रतिवासि। चट्टभट्ट-विस-
५० यिल्लकादि-ज(जा)नपदान् कर्षका[ं]श्च यथात्यागं मानयति। बोधयति समादिशति वः मतमस्तु भवतां। एतत् द्वयं
५१ चतुः शी(सी)मावच्छिन्नं। परिबो(रो)ध-शुद्धं अचट्टभट्ट-प्रवेसं(शं) सजलस्थलं। भूच्छिद्रञ्च अकिञ्चित्करग्राह्यं। चतुर्थाब्द-
५२ सं वैशाख-प्रथमादिना(?) गुग्गुली श्रीशृ(श्री)धर-शर्म्मणे चतुःशतिकं शासनीकृत्य प्रदत्तमस्माभिः तदेतस्मिन्
५३ विधेया भव्रेतेति। सं ४ सूर्य्यगत्या वैशाख-दिने १ नि॥ सन्तिवडा-मन्दरा-ग्रामयो रेकीभूय अष्टसीमा-

^(২৬)  শার্দ্দূল-বিক্রীড়িত।

^(২৭-২৮)  পথ্যাবক্ত্র।

১৩৪