পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৭৬

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।

३८ न् अन्याँश्चाकीर्त्तितान्। राजपादोपजीविन[ः] प्रतिवासिनो ब्राह्मणेत्तरान् महत्तमोत्तमकुटुम्वी-पुरोगम-चण्डाल-पर्य्यन्तान् य-
३९ थार्हं मानयति बोधयति समादिशति च विदितमस्तु भवतां॥ यथोपरिलिक्षितोयं ग्रामः॥ स्वसीमातृणपूति-गोचर-पर्य्यन्तः॥
४० सतलः सोद्देशः साम्रमधूकः सजलस्थलः सगर्त्तोषरः सझाटविटपः सदरसापसारः सचौरोद्धरणिकः परिहृत-सर्व्व-
४१ पीड़ः अचाटभट्टप्रवेशः अकिञ्चित्-परग्राह्यः भाग-भोगकर-हिरण्यादि-प्रत्याय-समेतः रत्नत्रय-राजसम्भोगवर्ज्जितः
४२ भूमिच्छिद्रन्यायेन आचन्द्रार्कं क्षितिसमकालं मात्रापित्रो रात्मनश्च पुण्ययशोभिवृद्धये कौत्स-सगोत्राय शाण्डि-
४३ ल्यासित-देवल-प्रवराय पण्डित श्रीभूषण-सब्रह्मचारिणे सामवेदान्तर्गत-कौथुम-शाखाध्यायिने चम्याहिट्टीयाय
४४ चम्पाहिठ्ठी-वास्तव्याय वत्सस्वामि-प्रपौत्राय प्रजापति स्वामि-पौत्राय शौनक स्वामि-पुत्राय पण्डितभट्टपुत्र श्रीवटेश्वर स्वा-
४५ मि-शर्म्मणे पट्टमहादेवी-चित्रमतिकया वेदव्यास-प्रोक्त-प्रपाठित-महाभारत-समुत्सर्ग्गित-दक्षिणात्वेन भगव-
४६ न्तं बुद्धभट्टारकमुद्दिश्य शासनीकृत्य प्रदत्तोऽस्माभिः। अतो भवद्भिः सर्व्वैरेवानुमन्तव्यं भाविभिरपि भूमिपति-
४७ भि र्भूमे र्द्दानफल-गौरवात् अपहरणे महा-नरकपातभयाच्च दानमिद मनुमोद्यानुमोद्य पालनीयं प्रतिवासि-
४८ भिश्च क्षेत्रकरै राज्ञाश्रवण-विधेयीभूयः यथाकालं ससुचित-भागभोगकर-हिरण्यादि-प्रत्यायोपनयः कार्य्य इति॥
४९ सम्वत् ८ चन्द्रगत्या चैत्रकर्म्मदिने १५ भवन्ति चात्र धर्म्मानुसं(शं)सिनः श्लोकाः॥

बहुभि र्व्वसुधा दत्ता राजभिः
५० सगरादिभिः

১৫৪