१५ रण्णादेव्याः पाणि र्जगृहे गृहमेधिना तेन॥(৯)
धृततनु रियं लक्ष्मीः साक्षात् क्षिति र्नु शरीरिणी
किमवनिपतेः
१६
कीर्त्ति र्मूर्त्ताऽथवा गृहदेवता।
इति विदधती शुच्याचारा वितर्कवतीः प्रजाः
प्रकृति-गुरुभि र्या शुद्धान्तं गुणै-
१७
रकरोदधः॥(১০)
श्लाघ्या पतिव्रतासौ मुक्ता-रत्नं समुद्र-शुक्तिरिव।
श्रीदेवपालदेवं प्रसन्न-वक्त्रं सुत मसूत॥(১১)
१८ निर्म्मलो मनसि वाचि संयतः काय-कर्म्मणि च यः स्थितः शुचौ।
राज्य माप निरुपप्लवं पितु र्बोधिसत्व इव
१९
सौगतं पदम्॥(১২)
भ्राम्यद्भि र्विजय-क्रमेण करिभि [:स्वा] मेव विन्ध्याटवी-
मुद्दाम-प्लवमान-वाष्पपयसो दृष्टाः पुन र्बान्ध-
२०
वाः।
काम्बोजेषु च यस्य वाजि-युवभि र्ध्वस्तान्य-राजौजसो
हेषामिश्रित-हारि-हेषितरवाः कान्ता श्चिरं वीक्षिताः॥(১৩)
२१ यः पूर्व्वं बलिना कृतः कृत-युगे येनागमद्भार्गव-
स्त्रेतायां प्रहतः प्रिय-प्रणयिना कर्ण्णेन यो द्वापरे।
विच्छिन्नः कलि-
२२
ना शक-द्विषि गते कालेन लोकान्तरं
येन त्यागपथः स एव हि पुन र्विस्पष्ट मुन्मीलितः॥(১৪)
^(৯) আর্য্যা।
^(১০) হরিণী।
^(১১) আর্য্যা।
^(১২) রথোদ্ধতা।
^(১৩) শার্দ্দূলবিক্রীড়িত।
^(১৪) শার্দ্দূলবিক্রীড়িত।
৩৭