পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/৭৩

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।
নারায়ণপালদেবের তাম্রশাসন।

३६ ग्रामपति। तरिक। गौड़। मालव। खश। हूण। कुलिक। कर्णाट। ला[ट]। चाट। भट। सेवकादीन्। अन्यांश्चार्कीर्त्तितान्।
३७ राजपादोपजीविनः प्रतिवासिनो ब्राह्मणोत्तरान्। महत्तमोत्तम-पुरोगमेदान्ध(न्ध्र)चण्डाल-पर्य्यन्तान्। यथार्हं मानयति।
३८ बोधयति। समादिशति च। मतमस्तु भवतां। कलशपोते। महाराजाधिराज-श्रीनारायणपालदेवेन स्वयं-कारित-सहस्रा-
३९ यतनस्य। तत्र प्रतिष्ठापितस्य। भगवतः शिवभट्टारकस्य। पाशुपत आचार्य्यपरिषद श्व। यथार्हं पूजा-बलि-चरु-सत्र-नव-क-
४० र्म्माद्यर्थं। शयनासन-ग्लान-प्रत्यय-भैषज्य-परिष्काराद्यर्थं। अन्येषामपि स्वाभिमतानां। स्वपरिकल्पित-विभागेन। अनवद्य-भो-
४१ गार्थञ्च। यथोपरिलिखित-मकुतिकाग्रामः। स्वसीमा-तृणयूति-गोचर-पर्य्यन्तः। सतलः। सोद्देशः। साम्रमधूकः। सजल-
४२ स्थलः। सगर्त्तोषरः। सोपरिकरः। सदशापचारः। सचौरोद्धरणः। परिहृत-सर्व्वपीड़ः। अचाटभट-प्रवेशः। अकिञ्चि-
४३ त्-प्रग्राह्यः। समस्त-भाग-भोग-कर-हिरण्यादि-प्रत्याय-समेतः। भूमिच्छिद्रन्यायेनाचन्द्रार्क्क-क्षिति समकालं यावत् माता-पि-
४४ त्रो रात्मनश्च पुण्ययशोऽभिवृद्धये। भगवन्तं शिवभट्टारकमुद्दिश्य शासनीकृत्य प्रदत्तः। ततो भवद्भिः सर्व्वैरेवानु-
४५ मन्तव्यं भाविभिरपि भूपतिभि र्भूमे र्द्दानफल-गौरवादप-हरणे च महानरकपात-भयाद्दानमिदमनुमोद्य पालनीयं प्र-
४६ तिवासिभिः क्षेत्रकरै श्चाज्ञा-श्रवण-विधेयीभूय यथाकालं समुचित-भाग-भोग-कर-हिरण्यादि-सर्व्वप्रत्यायोपनयः का-
४७ र्य्य इति। सम्वत् १७ वैशाखदिने ९ [॥] तथा च धर्म्मानुशङ्सिनः श्लोकाः।

बहुभि र्व्वसुधा दत्ता राजभिः सगरादिभिः [।]
४८ यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलं॥

৬১