পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/৭৪

এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।

षष्टिं वर्षसहस्राणि स्वर्ग्गे मोदति भूमिदः।
आक्षेप्ता चानुमन्ता च तान्येव न-
४९ रके वसेत्॥
स्वदत्ता म्परदत्ताम्वा यो हरेत वसुन्धरां।
स विष्ठायां कृमि र्भूत्वा पितृभिः सह पच्यते॥
सर्व्वानेतान् भाविनः
५० पार्थिवेन्द्रान्
भूयोभूयः प्रार्थयत्येष रामः।
सामान्योऽयन्धर्म्म-सेतु र्नृपाणां
काले काले पालनीयः क्रमेण॥
इति क-
५१ मलदलाम्बु-विन्दुलोलां
श्रिय मनुचिन्त्य मनुष्य-जीवितञ्च।
सकलमिदमुदाहृतञ्च बुद्ध्वा
नहि पुरुषैः परकीर्त्तयो विलो-
५२ प्याः॥
वेदान्तै रप्यसुगमतमं वेदिता ब्रह्मत(ता)र्थं
यः सर्व्वासु श्रुतिषु परमः सार्द्ध मङ्गै रधीती।
यो यज्ञानां समुदित-महाद-
५३ क्षिणानां प्रणेता
भट्टः श्रीमानिह स गुरवो दूतकः पुण्यकीर्त्तिः॥(১৮)
श्रीमता मङ्घदासेन शू(शु)भदासस्य शू(सू)नुना।
इदं सा (शा)-
५४ श(स)न मुत्‌कीर्ण्णं सत्-समतट-जन्मना॥(১৯)


^(১৮)  মন্দাক্রান্তা।

^(১৯)  অনুষ্ঠুভ্।

৬২