আলাপ:গৌড়লেখমালা (প্রথম স্তবক)/তৃতীয় বিগ্রহপালদেবের তাম্রশাসন

অবশিষ্ট পাঠ সম্পাদনা

রাখালদাস বন্দ্যোপাধ্যায়ের "The Amgachhi Grant of Vigraha-Pala III: the 12th Year", Epigraphia Indica, Vol. XV, 1919-20, p. 293 অনুযায়ী।

स खलु भागीरथीपथ प्रवर्त्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-
२१ शैलशिखरश्रेणी-विभ्रमात्। निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासरलक्ष्मी-समारब्ध-सन्तत-जलदसमय-सन्देहात्। उदीचीनानेक-
२२ नरपति-प्राभृतिकृता-प्रामेय-हयवाहिनी-खरखुरोत्खात-धूली-धूसरित-दिगन्तरालात्। परमेश्वर-सेवासामायाताशेष-जम्बूद्वीप-भूपालानन्त-
२३ पादात-भर-नमदवनेः॥ हरधाम(?)-समावासित-श्रीमज्जयस्कन्धावारात्। परमसौगतो महाराजाधिराज-श्रीनयपालदेव-पादानुध्यातः परमे-
२४ श्वरः परमभट्टारको महाराजाधिराजः श्रीमान् विग्रहपालदेवः कुशली। श्रीपुण्ड्रवर्द्धनभुक्तौ कोटीवर्ष-विषयान्तःपाति-ब्राह्मणीग्राम-
२५ मण्डलान्तःपाति-स्वसम्बद्धावच्छिन्न-तलोपेत अधुना हलकलित-काकिनी-त्रयाधिकोन्मान-द्वयोपेत-
२६ स — — — सीमान्तः। द्रोणद्वय-समेत॥ षट्‌कुल्य-प्रमाण-दण्ड-त्रहेश्वर-समेत-विषमपुरांशे समुपगताशे-
२७ ष-राजपुरुषान् राज राजन्यक राजपुत्र राजामात्य महासान्धिविग्रहिक महाक्षपटलिक महासामन्त महासेनापति महाप्रतीहार
२८ दौःसाधसाधनिक महादण्डनायक महाकुमारामात्य राजस्थानीयोपरिक दाशापराधिक चौरोद्धरणिक दाण्डिक दाण्डपाशिक शौ-
२९ ल्किक गौल्मिक क्षेत्रप प्रान्तपाल कोट्टपाल अङ्गरक्ष तदायुक्त-विनियुक्तक हस्त्यश्वोष्ट्रनौबलव्यापृतक किशोर-वाड़वा-गो-महिषाजा-
३० विकाध्यक्ष दूतप्रेषणिक गमागमिक अभित्वरमाण विषयपति ग्रामपति तरिक गौड़ मालव खश हूण कुलिक कर्ण्णाट लाट चाट
३१ भट सेवकादीन् अन्यांश्चाकीर्त्तितान् राजपादोपजीविनः प्रतिवासिनो ब्राह्मणोत्तरान् महत्तमोत्तम-कुटुम्बि-पुरोगान्मेदान्ध्र-चण्डाल-पर्यन्ता-
३२ न् यथार्हं मानयति बोधयति समादिशति च विदितमस्तु भवतां। यथोपरिलिखितोऽयं ग्रामः स्वसीमा-तृणयूति-गोचर-पर्यन्तः सतलः सोद्देशः
३३ साम्रमधूकः सजलस्थलः सगर्त्तोषरः सदशापचारः सचौरोद्धरणः परिहृत-सर्व्वपीड़ः अचाटभटप्रवेशः अकिञ्चित्-प्रग्राह्यः समस्त-भा-
३४ ग-भोग-कर-हिरण्यादि-प्रत्याय-समेतः भूमिच्छिद्रन्यायेना-
३५ चन्द्रार्क-क्षिति-समकालं मातापित्रोरात्मनश्च पुण्य-
३६ यशोभिवृद्धये भगवन्तं बुद्ध-भट्टारकमुद्दिश्य शाण्डि-
३७ ल्य-सगोत्राय शाण्डिल्यासित-दैवल-प्रवराय
३८ हरि-सब्रह्मचारिणे सामवेदिने कौथुमी-शाखाध्यायि-
३९ ने मीमांसा-व्याकरण-तर्क्क-विद्याविदे क्रोड़ञ्चि-विनिर्ग्गत-मत्स्यावास-विनिर्ग्गताय छत्त्राग्राम-वास्तव्याय वेदान्तवित्-पद्मावन-देवपौत्राय महो-
४० पाध्याय अर्क्कदेव-पुत्राय खोदुलदेव-शर्म्मणे सोमग्रहे विधिवद्गङ्गायां स्नात्वा शासनीकृत्य प्रदत्तोऽस्माभिः। अतो भवद्भिः सर्वैरेवानुमन्तव्य-
४१ म् भाविभिरपि भूपतिभिः भूमेर्दानफल-गौरवात् अपहरणेन च महानरकपातभयात् दानमिदमनुमोद्यानुपालनीयम् प्रतिवासिभि-
४२ श्च क्षेत्रकरैः आज्ञाश्रवणविधेयीभूय यथाकालं समुदित-भाग-भोग-कर-हिरण्यादि-प्रत्यायोपनयः कार्य इति॥ सम्वत् १२ चैत्र दिने ९। भवन्ति
४३ चात्र धर्मानुशंसिनः श्लोकाः॥

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्॥(১৫)
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्र-
४४ यच्छति।
उभौ तौ पुण्यकर्म्माणौ नियतं स्वर्गगामिनौ॥(১৬)
गामेकां स्वर्ण्णमेकञ्च भूमेरप्यर्द्धमङ्गुलम्।
हरन्नरकमायाति यावदाभूत-संप्लवम्॥(১৭)
षष्टिम्वर्ष-
४५ सहस्राणि स्वर्गे मोदति भूमिदः।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत्॥(১৮)
स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम्।
स विष्ठायां कृमिर्भूत्वा पि-
४६ तृभिः सह पच्यते॥(১৯)
सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयः प्रार्थायत्येष रामः।
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयः क्रमेण॥(২০)
इ-
४७ ति कमल-दलाम्बु-बिन्दु-लोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च।
सकलमिदमुदाहृतञ्च बुद्ध्वा न हि पुरुषैः पर-कीर्त्तयो विलोप्या:॥(২১)
सौसा[—]
४८ वन्तिमर्यादारा(?)सं सत्यतपोनिधिः।
ब्रह्मणि सुरधामा धनोः — — णो दग्ध-भूभुजाम्॥(২২)
श्रीमद्विग्रहपालः क्षितिपति-तिलको मणि — — — — ः।
श्रीसह-
४९ हसिराजमकरोन्मन्त्रिणमिह शासने दूतम्॥(২৩)
पोषलीग्राम-निर्यात-महीधरदेव-सूनुना।
इदं शासनमुत्कीर्ण्णं शशिदेवेन शिल्पिना॥(২৪)

"গৌড়লেখমালা (প্রথম স্তবক)/তৃতীয় বিগ্রহপালদেবের তাম্রশাসন" পাতায় ফেরত যান।